|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.198. अध्यायः 198
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भाष्मेणि युधिष्ठिरंप्रति भोज्याभोज्यान्नकानां भोजनीयानां जनानां च विवेचनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
के भोज्या ब्राह्मणस्येह के भोज्याः क्षत्रियस्य ह।
तथा वैश्यस्य के भोज्याः के शूद्रस्य च भारत॥ 13-198-1(89095)
भीष्म उवाच। 13-198-2x(7435)
ब्राह्मणा ब्राह्मणस्येह भोज्या ये चैव क्षत्रियाः।
वैश्याश्चापि तथा भोज्याः शूद्राश्च परिवर्जिताः॥ 13-198-2(89096)
ब्राह्मणाः क्षत्रिया वैश्या भोज्या वै क्षत्रियस्य ह।
वर्जनीयास्तु वै शूद्राः सर्वभक्षा विकर्मिणः॥ 13-198-3(89097)
वैश्यास्तु भोज्या विप्राणां क्षत्रियाणां तथैव च।
नित्याग्नयो विविक्ताश्च चातुर्मास्यरताश्च ये॥ 13-198-4(89098)
शूद्राणामथ यो भुङ्क्ते स भुङ्क्ते पृथिवीमलम्।
मलं नृणां स पिबति मलं भुङ्क्ते जनस्य च॥ 13-198-5(89099)
शूद्राणां यस्तथा भुङ्क्ते स भुङ्क्ते पृथिवीमलम्।
पृथिवीमलमश्नन्ति ये द्विजाः शूद्रभोजिनः॥ 13-198-6(89100)
शूद्रस्य कर्मनिष्ठायां विकर्मस्थोपि पच्यते।
ब्राह्मणः क्षत्रियो वैश्यो विकर्मस्थश्च पच्यते॥ 13-198-7(89101)
स्वाध्यायनिरता विप्रास्तथा स्वस्त्ययने नृणाम्।
रक्षणे क्षत्रियं प्राहुर्वैश्यं पुष्ट्यर्थमेव च॥ 13-198-8(89102)
करोति कर्म यद्वैश्यस्तद्गत्वा ह्युपजीवति।
कृषिगोरक्ष्यवाणिज्यमकुत्सा वैश्यकर्मणि॥ 13-198-9(89103)
शूद्रकर्म तु यः कुर्यादवहाय स्वकर्म च।
स विज्ञेयो यथा शूद्रो न च भोज्यः कदाचन॥ 13-198-10(89104)
चिकित्सकः काण्डपृष्ठः पुराऽध्यक्षः पुरोहितः।
सांवत्सरो वृथाध्यायी सर्वे ते शूद्रसंमिताः॥ 13-198-11(89105)
शूद्रकर्मस्वथैतेषु यो भुङ्क्ते निरपत्रपः।
अभोज्यभोजनं भुक्त्वा भयं प्राप्नोति दारुणम्॥ 13-198-12(89106)
कुलं वीर्यं च तेजश्च तिर्यग्योनित्वमेव च।
स प्रयाति यथा श्वा वै निष्क्रियो धर्मवर्जितः॥ 13-198-13(89107)
भुङ्क्ते चिकित्सकस्यान्नं तदन्नं च पुरीषवत्।
पुंश्चल्यन्नं च मूत्रं स्यात्कारुकान्नं च शोणितम्॥ 13-198-14(89108)
विद्योपजीविनोऽन्नं च यो भुङ्क्ते साधुसम्मतः।
तदप्यन्नं यथा शौद्रं तत्साधुः परिवर्जयेत्॥ 13-198-15(89109)
वचनीयस्य यो भुङ्क्ते तमाहुः शोणितं ह्रदम्।
पिशुनं भोजनं भुङ्क्ते ब्रह्महत्यासमं विदुः॥ 13-198-16(89110)
असत्कृतमवज्ञातं न भोक्तव्यं कदाचन॥ 13-198-17(89111)
व्याधिं कुलक्षयं चैव क्षिप्रं प्राप्नोति ब्राह्मणः।
नगरीरक्षिणो भुङ्क्ते श्वपचप्रवणो भवेत्॥ 13-198-18(89112)
गोघ्ने च ब्राह्मणघ्ने च सुरापे गुरुतल्पगे।
भुक्त्वाऽन्नं जायते विप्रो रक्षसां कुलवर्धनः॥ 13-198-19(89113)
न्यासापहारिणो भुक्त्वा कृतघ्ने क्लीबवर्तिनि।
जायते शबरावासे मध्यदेशबहिष्कृते॥ 13-198-20(89114)
अभोज्याश्चैव भोज्याश्च मया प्रोक्ता यथाविधि।
किमन्यदद्य कौन्तेय मत्तस्त्वं श्रोतुमिच्छसि॥] ॥ 13-198-21(89115)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टनवत्यधिकशततमोऽध्यायः॥ 198 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-198-1 के भोज्या भोज्यान्नाः॥ 7-198-4 वैश्या भोज्या भोजनीयाः॥ 7-198-7 शूद्रस्य कर्मनिष्ठायां सेवायां वर्तमानो विकर्मस्थो विशिष्टकर्मस्थः संध्यावन्दनादियुक्तोऽपि पच्यते नरके इति शेषः॥ 7-198-11 काण्डपृष्ठोऽधमः॥ 7-198-16 पिशुनं तत्सम्बन्धि॥ 7-198-18 नगरीं रक्षति तस्य॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|